त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्। त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
त्वम् । आविथ । सुऽअवसम् । तव । ऊतिऽभि: । तव । त्रामभि: । इन्द्र । तूर्वयाणम् ॥ त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनाय: ॥२१.१०॥
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्यों के कर्तव्य का उपदेश।
