Go To Mantra
Viewed 91 times

त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्। त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥

Mantra Audio
Pad Path

त्वम् । आविथ । सुऽअवसम् । तव । ऊतिऽभि: । तव । त्रामभि: । इन्द्र । तूर्वयाणम् ॥ त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनाय: ॥२१.१०॥

Atharvaveda » Kand:20» Sukta:21» Paryayah:0» Mantra:10


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्यों के कर्तव्य का उपदेश।

Word-Meaning: - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवान् सेनापति] (त्वम्) तूने (सुश्रवसम्) बड़ी कीर्तिवाले, (तूर्वयाणम्) शत्रुओं को मारनेवाले शूरों के चलानेवाले वीर को (तव) अपनी (ऊतिभिः) रक्षाओं के साथ और (तव) अपने (त्रामभिः) पालन-साधनों के साथ (आविथ) बचाया है। (त्वम्) तू (अस्मै) इस (महे) पूजनीय, (यूने) स्वभाव से बलवान् (राज्ञे) राजा के लिये (कुत्सम्) मिलनसार ऋषि, (अतिथिग्वम्) अतिथियों को प्राप्त होनेवाले (आयुम्) चलते हुए मनुष्य को (अरन्धनायः) पूरे धनी के समान आचरण करता रहे ॥१०॥
Connotation: - राजपुरुष सेनापति लोग अपने राजा के बचाने के लिये युद्धपण्डित उपकारी वीरों की सदा रक्षा करते रहें ॥१०॥
Footnote: १०−(त्वम्) (आविथ) ररक्षिथ (सुश्रवसम्) बहुकीर्तिमन्तं युद्धपण्डितम् (तव) स्वकीयाभिः (ऊतिभिः) रक्षाभिः (तव) स्वकीयैः (त्रामभिः) त्रैङ् पालने-मनिन्। पालनसाधनैः (इन्द्र) हे परमैश्वर्यवन् सेनापते (तूर्वयाणम्) तुर्वी हिंसायाम्-अच्+या गतौ-ल्युट्। तूर्वाणां शत्रुहिंसकानां शूराणां यानं गमनं यस्मात् तं वीरम् (त्वम्) (अस्मै) युध्यमानाय (कुत्सम्) अ० ४।२९।। कुस संश्लेषणे-सप्रत्ययः। सस्य तः। संगतिशीलम् ऋषिम् (अतिथिग्वम्) म० ८। अतिथीनां विदुषां प्रापकम् (आयुम्) छन्दसीणः। उ० १।२। इण् गतौ-उण्। आयवो मनुष्यनाम-निघ० २।३। गतिशीलं मनुष्यम् (महे) पूजनीयाय (राज्ञे) प्रधानशासकाय (यूने) निसर्गबलवते (अरन्धनायः) अरन्धन-क्यङ्, लिङि रूपम्। अरमलं धनं यस्य स इवाचरेः ॥