इ॒मं दे॑वाऽअस॒पत्नꣳ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑। इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒शऽए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ राजा॑ ॥४०॥
इ॒मम्। दे॒वाः॒। अ॒स॒प॒त्नम्। सु॒व॒ध्व॒म्। म॒ह॒ते। क्ष॒त्राय॑। म॒ह॒ते। ज्यैष्ठ्या॑य। म॒ह॒ते। जान॑राज्या॒येति॒ जान॑ऽराज्याय। इन्द्र॑स्य। इ॒न्द्रि॒याय॑। इ॒मम्। अ॒मुष्य॑। पु॒त्रम्। अ॒मुष्यै॑। पु॒त्रम्। अ॒स्यै। वि॒शे। ए॒षः। वः॒। अ॒मी॒ऽइत्य॑मी। राजा॑। सोमः॑। अ॒स्माक॑म्। ब्रा॒ह्म॒णाना॑म्। राजा॑ ॥४०॥
हिन्दी - स्वामी दयानन्द सरस्वती
किस-किस प्रयोजन के लिये कैसे राजा का स्वीकार करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कस्मै कस्मै प्रयोजनाय कथंभूतो राजा स्वीकार्य्य इत्याह ॥
(इमम्) समक्षे वर्त्तमानम् (देवाः) धार्मिका विद्वांसः (असपत्नम्) अजातशत्रुम् (सुवध्वम्) निष्पादयत (महते) महागुणविशिष्टाय (क्षत्राय) क्षत्रियाणां पालनाय (महते) (ज्यैष्ठ्याय) ज्येष्ठत्वाय (महते) (जानराज्याय) जनानां राजसु भवाय (इन्द्रस्य) परमैश्वर्य्ययुक्तस्य पुरुषस्य (इन्द्रियाय) धनाय (इमम्) (अमुष्य) (पुत्रम्) प्रतिष्ठितस्य धार्मिकस्य विदुषः सन्तानम् (अमुष्यै) अमुष्या धार्मिकाया विदुष्याः (पुत्रम्) पवित्रमपत्यम् (अस्यै) वर्त्तमानायाः (विशे) प्रजायाः (एषः) सर्वैः स्वीकृतः (वः) युष्माकं क्षत्रियादीनाम् (अमी) परोक्षे वर्त्तमानाः (राजा) न्यायप्रकाशकः (सोमः) सोम इव प्रजासु वर्त्तमानाः (अस्माकम्) (ब्राह्मणानाम्) ब्रह्मणः परमेश्वरस्य वेदचतुष्टयस्य वा सेवकानाम् (राजा)। अयं मन्त्रः (शत०५.३.३.११) व्याख्यातः ॥४०॥