पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ऽउद॑जय॒त् ताऽउज्जे॑षꣳ सवि॒ता षड॑क्षरेण॒ षड् ऋ॒तूनुद॑जय॒त् तानुज्जे॑षं म॒रुतः स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त् तामुज्जे॑षम् ॥३२॥
पू॒षा। पञ्चा॑क्षरे॒णेति॒ पञ्च॑ऽअक्षरेण। पञ्च॑। दिशः॑। उत्। अ॒ज॒य॒त्। ताः। उत्। जे॒ष॒म्। स॒वि॒ता। षड॑क्षरे॒णेति॒ षट्ऽअ॑क्षरेण। षट्। ऋ॒तून्। उत्। अ॒ज॒य॒त्। तान्। उत्। जे॒ष॒म्। म॒रुतः॑। स॒प्ताक्ष॑रे॒णेति॑ स॒प्तऽअ॑क्षरेण। स॒प्त। ग्रा॒म्यान्। प॒शून्। उत्। अ॒ज॒य॒न्। तान्। उत्। जे॒ष॒म्। बृह॒स्पतिः॑। अ॒ष्टाक्ष॑रे॒णेत्य॒ष्टऽअक्ष॑रेण। गा॒य॒त्रीम्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म् ॥३२॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर राजा और प्रजाजन किनके दृष्टान्तों से क्या-क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुना राजप्रजाजनाः किंवत् किं कुर्य्युरित्याह ॥
(पूषा) चन्द्र इव सर्वस्य पोषकः (पञ्चाक्षरेण) दैव्या पङ्क्त्या (पञ्च) चतस्रः पार्श्वस्था एका अध ऊर्ध्वस्था (दिशः) (उत्) (अजयत्) (ताः) (जेषम्) (सविता) सूर्य इव (षडक्षरेण) दैव्या त्रिष्टुभा (षट्) (ऋतून्) वसन्तादीन् (उत्) (अजयत्) (तान्) (उत्) (जेषम्) (मरुतः) वायव इव (सप्ताक्षरेण) दैव्या जगत्या (सप्त) गोऽश्वमहिषोष्ट्राजाविगर्दभान् (ग्राम्यान्) ग्रामे भवान् (पशून्) गवादीन् (उत्) (अजयन्) (तान्) (उत्) (जेषम्) (बृहस्पतिः) अनूचानो विद्वानिव (अष्टाक्षरेण) याजुष्याऽनुष्टुभा (गायत्रीम्) यया गायन्तं त्रायते तां नीतिम् (उत्) (अजयत्) (ताम्) (उत्) (जेषम्) ॥३२॥