शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृक॒ꣳ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥१६॥
शम्। नः॒। भ॒व॒न्तु॒। वा॒जिनः॑। हवे॑षु। दे॒वता॒तेति॑ दे॒वऽताता॑। मि॒तद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स्व॒र्का इति॑ सुऽअ॒र्काः। ज॒म्भय॑न्तः। अहि॑म्। वृक॑म्। रक्षा॑सि। सने॑मि। अ॒स्मत्। यु॒य॒व॒न्। अमी॑वाः ॥१६॥
हिन्दी - स्वामी दयानन्द सरस्वती
कौन पुरुष प्रजा के पालने और शत्रुओं के विनाश करने में समर्थ होते हैं, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
के प्रजापालने शत्रुविनाशने च शक्तिमन्तो भवन्तीत्याह ॥
(शम्) सुखम् (नः) अस्माकम् (भवन्तु) (वाजिनः) प्रशस्तयुद्धविद्याविदः सुशिक्षितास्तुरङ्गा (हवेषु) सङ्ग्रामेषु (देवताता) देवानां विदुषां कर्मसु। अत्र देवात्तातिल्। (अष्टा०४.४.१४२) सुपां सुलुक्०। (अष्टा०७.१.३९) इति डादेशश्च (मितद्रवः) ये परिमितं द्रवन्ति गच्छन्ति ते (स्वर्काः) शोभनोऽर्कोऽन्नं सत्कारो वा येषान्ते। अर्क इत्यन्ननामसु पठितम्। (निघं०२.७) (जम्भयन्तः) गात्राणि विनमयन्तः (अहिम्) मेघमिव चेष्टमानमुन्नतम् (वृकम्) चोरम् (रक्षांसि) हिंसकान् दस्यून् (सनेमि) सनातनम्। सनेमीति पुराणनामसु पठितम्। (निघं०३.१७) (अस्मत्) (युयवन्) युवन्तु पृथक् कुर्वन्तु। अत्र लेटि शपः श्लुः (अमीवाः) ये रोगवद्वर्त्तमानाः शत्रवस्तान्। अयं मन्त्रः (शत०५.१.५.२२) व्याख्यातः ॥१६॥