उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ऽइन्दो॑रिन्द्रि॒याव॑तः॒ पत्नी॑वतो॒ ग्रहाँ॑२ऽऋध्यासम्। अ॒हं प॒रस्ता॑द॒हम॒वस्ताद् यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताभू॑त्। अ॒हꣳ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत् ॥९॥
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑ऽसुतस्य। दे॒व॒। सो॒म॒। ते॒। इन्दोः॑। इ॒न्द्रि॒याव॑तः। इ॒न्द्रि॒यव॑त॒ इती॑न्द्रि॒यऽव॑तः। पत्नी॑वत॒ इति॒ पत्नी॑ऽवतः। ग्रहा॑न्। ऋ॒ध्या॒स॒म्। अ॒हम्। प॒रस्ता॑त्। अ॒हम्। अ॒वस्ता॑त्। यत्। अ॒न्तरिक्ष॑म्। तत्। ऊँ॒ऽइत्यूँ॑। मे॒। पि॒ता। अ॒भू॒त्। अ॒हम्। सू॑र्य्यम्। उ॒भ॒यतः॑। द॒द॒र्श॒। अ॒हम्। दे॒वाना॑म्। प॒र॒मम्। गुहा॑। यत् ॥९॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर गृहस्थ का धर्म्म अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्गार्हस्थ्यधर्म्ममाह ॥
(उपयामगृहीतः) (असि) (बृहस्पतिसुतस्य) बृहत्या वेदवाण्याः पतेः पालकस्य पुत्रस्य (देव) कमनीयतम (सोम) ऐश्वर्य्यसम्पन्न (ते) तव (इन्दोः) सोमगुणसम्पन्नस्य (इन्द्रियावतः) बहुधनयुक्तस्य। इन्द्रियमिति धननामसु पठितम्। (निघं०२.१०) (पत्नीवतः) प्रशस्ता यज्ञसम्बन्धिनी जाया यस्य (ग्रहान्) गृह्यन्ते स्वीक्रियन्ते विवाहकाले नियतशिक्षाविषया ये तान् (ऋध्यासम्) वर्द्धिषीय (अहम्) (परस्तात्) उत्तरस्मात् (अहम्) (अवस्तात्) अर्वाचीनात् समयात् (यत्) (अन्तरिक्षम्) अन्तरं क्षयमन्तःकरणे क्षयरहितं विज्ञानम् (तत्) (उ) वितर्के (मे) मम (पिता) पालको जनकः (अभूत्) भवति। वर्त्तमाने लट् उक्तपूर्वापरभावतः (अहम्) (सूर्यम्) चराचरात्मानमीश्वरम् (उभयतः) (ददर्श) दृष्टवान् दृष्टवती चास्मि (अहम्) (देवानाम्) विदुषाम् (परमम्) अत्युत्तमम् (गुहा) गुह्यन्ते संव्रियन्ते सकला विद्या यया बुद्ध्या तस्याम्। अत्र सुपां सुलुक्। (अष्टा०७.१.३९) इति ङेर्लुक् (यत्)। अयं मन्त्रः (शत०४.४.२.१२-१४) व्याख्यातः ॥९॥