प॒र॒मे॒ष्ठ्य᳕यभिधी॑तः प्रजाप॑तिर्वा॒चि व्याहृ॑ताया॒मन्धो॒ऽअच्छे॑तः। सवि॒ता स॒न्यां वि॒श्वक॑र्मा दी॒क्षायां॑ पू॒षा सो॑म॒क्रय॑ण्याम् ॥५४॥
प॒र॒मे॒ष्ठी। प॒र॒मे॒स्थीति॑ परमे॒ऽस्थी। अ॒भिधी॑त॒ इत्य॒भिऽधी॑तः। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। वा॒चि। व्याहृ॑ताया॒मिति॑ विऽआहृ॑तायाम्। अन्धः॑। अच्छे॑त॒ इत्यच्छ॑ऽइतः। स॒वि॒ता। स॒न्याम्। वि॒श्वक॒र्म्मेति॑ वि॒श्वऽक॑र्म्मा। दी॒क्षाया॑म्। पू॒षा। सो॒म॒क्रय॑ण्या॒मिति॑ सोम॒ऽक्रय॑ण्याम् ॥५४॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी गृहस्थ का कर्म्म अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्गार्हस्थ्यकर्म्माह ॥
(परमेष्ठी) परमे प्रकृष्टे स्वरूपे तिष्ठतीति (अभिधीतः) निश्चितः (प्रजापतिः) प्रजायाः स्वामी (वाचि) वेदवाण्याम् (व्याहृतायाम्) उपदिष्टायां सत्याम् (अन्धः) अद्यते यत्तदन्धोऽन्नम्। अदेर्नुम् धौ च। (उणा०४.२०६) अनेनादधातोरसुनि नुम् धश्च। अन्ध इत्यन्ननामसु पठितम्। (निघं०२.७) उपलक्षणं चान्येषां पदार्थानाम् (अच्छेतः) अच्छं निर्मलं स्वरूपमितः प्राप्तः (सविता) जगदुत्पादकः (सन्याम्) सत्यं नीयते यया तस्याम् (विश्वकर्म्मा) सर्वोत्तमकर्म्मा सभापतिः (दीक्षायाम्) नियमधारणारम्भे (पूषा) पोषको वैद्यः (सोमक्रयण्याम्) सोमाद्योषधीनां ग्रहणे। अयं मन्त्रः (शत०१२.६.१.१-८) व्याख्यातः ॥५४॥