यस्यै॑ ते य॒ज्ञियो॒ गर्भो॒ यस्यै॒ योनि॑र्हिर॒ण्ययी॑। अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ꣳ स्वाहा॑ ॥२९॥
यस्यै॑। ते॒। य॒ज्ञियः॑। गर्भः॑। यस्यै॑। योनिः॑। हि॑र॒ण्ययी॑। अङ्गा॑नि। अह्रु॑ता। यस्य॑। तम्। मा॒त्रा। सम्। अ॒जी॒ग॒म॒म्। स्वाहा॑ ॥२९॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी गृहस्थ धर्म्म में गर्भ की व्यवस्था अगले मन्त्र में कही है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरपि गार्हस्थ्यधर्म्मे गर्भव्यवस्थामाह ॥
(यस्यै) सुलक्षणायाः स्त्रियाः, षष्ठ्यर्थे चतुर्थी (ते) तव (यज्ञियः) यो यज्ञमर्हति (गर्भः) (यस्यै) सुभगायाः (योनिः) जन्मस्थानम् (हिरण्ययी) रोगरहिता शुद्धा (अङ्गानि) अङ्कितानि व्यञ्जकानि वा। अङ्गेति क्षिप्रनाम, अङ्गितमेवाञ्चितं भवति। (निरु०५.१७) (अह्रुता) अकुटिलानि सरलानि शोभनानि, शेश्छन्दसि बहुलम्। (अष्टा०६.१.७०) इति लुक् (यस्य) (तम्) (मात्रा) गर्भमानकर्त्र्या त्वया सह समागम्य (सम्) (अजीगमम्) सम्यक् प्राप्नुयाम् (स्वाहा) धर्म्मयुक्त्या क्रियया। अयं मन्त्रः (शत०४.५.२.१०-११) व्याख्यातः ॥२९॥
