दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य᳖कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नम-स्या॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नम॒स्येन॑सऽएनसोऽव॒यज॑नमसि। यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्व॒स्यैन॑सोऽव॒यज॑नमसि ॥१३॥
दे॒वकृ॑त॒स्येति॑ दे॒वऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। म॒नु॒ष्य॒कृत॒स्येति॑ म॒नु॒ष्य᳖ऽकृत॑स्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। पि॒तृकृ॑त॒स्येति॑ पि॒तृऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। आ॒त्मकृ॑त॒स्येत्या॒त्मऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। एन॑स एनस॒ इत्येन॑सःऽएनसः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। यत्। च॒। अ॒हम्। एनः॑। वि॒द्वान्। च॒कार॑। यत्। च॒। अवि॑द्वान्। तस्य॑। सर्व॑स्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒ ॥१३॥
हिन्दी - स्वामी दयानन्द सरस्वती
अगले मन्त्र में पूर्वोक्त विषय प्रकारान्तर से कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पूर्वोक्तविषयं प्रकारान्तरेणाह ॥
(देवकृतस्य) दानशीलकृतस्य (एनसः) पापस्य (अवयजनम्) पृथक्करणम् (असि) (मनुष्यकृतस्य) साधारणजनेनाचरितस्य (एनसः) अपराधस्य (अवयजनम्) दूरीकरणम् (असि) (पितृकृतस्य) जनककृतस्य (एनसः) विरोधाचरणस्य (अवयजनम्) परिहरणम् (असि) (आत्मकृतस्य) स्वयमाचरितस्य (एनसः) पापस्य (अवयजनम्) (असि) (एनसः) (एनसः) अधर्म्मस्याधर्म्मस्य (अवयजनम्) परिहरणम् (असि) (यत्) अतीते काले (च) वर्त्तमाने (अहम्) (एनः) अधर्म्माचरणम् (विद्वान्) जानन् सन् (चकार) कृतवान्, करोमि, करिष्यामि वा, अत्र छन्दसि लुङ्लिङ्लिटः। (अष्टा०३.४.६) इति कालसामान्ये लिट्। (यत्) (च) अविद्यासमुच्चये (अविद्वान्) अजानन् सन् (तस्य) (सर्वस्य) (एनसः) दुष्टाचरणस्य (अवयजनम्) दूरीकरणम् (असि)। अयं मन्त्रः (शत०४.३.६.१) व्याख्यातः ॥१३॥