इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒राग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि। उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ऽइन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषो॑भ्यां त्वा ॥८॥
इन्द्र॑वायू॒ इ॒तीन्द्र॑ऽवायू। इ॒मे। सु॒ताः। उप॒ प्रयो॑भि॒रिति॒ प्रयः॑ऽभिः। आ॑गत॒म्। इन्द॑वः। वा॒म्। उ॒शन्ति॑। हि। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वा॒यवे॑। इ॒न्द्रवा॒युभ्या॒मिती॑न्द्रवा॒युऽभ्या॑म्। त्वा॒। ए॒षः। ते। योनिः॑। स॒जोषो॑भ्यामिति॑ स॒जोषः॑ऽभ्याम्। त्वा॒ ॥८॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह योगी कैसा होता है, यह अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स योगी कीदृशो भवतीत्युच्यते ॥
(इन्द्रवायू) प्राणसूर्य्यसदृशौ योगस्योपदेससष्ट्रभ्यासिनौ (इमे) समक्षाः (सुताः) निष्पन्नाः पदार्थाः (उप) समीपे (प्रयोभिः) कमनीयैर्लक्षणैः (आगतम्) आगच्छतम्। गम्लृ गतावित्यस्माद्। बहुलं छन्दसि। (अष्टा०२.४.७३) इति शपो लुकि सति शित्वाभावाच्छस्याभावः। अनुदात्तोपदेश०। (अष्टा०६.४.३७) इत्यादिना मलोपश्च। (इन्दवः) सुखकारका जलादिपदार्थाः। इन्दुरित्युदकनामसु पठितम्। (निघं०१.१२) (वाम्) युवाम् (उशन्ति) कामयन्ते (हि) सादृश्ये (उपयामगृहीतः) योगस्य यमनियमाङ्गैः सह स्वीकृतः (असि) (वायवे) वायुवद् गत्यादिसिद्धये यद्वा वाति प्रापयति योगबलेन व्यवहारानिति वायुर्योगविचक्षणस्तस्मै तादृशसम्पन्नाय (इन्द्रवायुभ्याम्) विद्युत्प्राणाभ्यामिव योगाकर्षणनिष्कर्षणाभ्याम् (त्वा) त्वाम् (एषः) योगः (ते) तव (योनिः) गृहम्। योनिरिति गृहनामसु पठितम्। (निघं०३.४) (सजोषोभ्याम्) यौ जोषसा सेवनेन सह वर्त्तमानौ ताभ्याम् (त्वा) त्वाम् ॥ अयं मन्त्रः (शत०४.१.३.१८) व्याख्यातः ॥८॥