अ॒यं नो॑ऽअ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒रऽए॑तु प्रभि॒न्दन्। अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यꣳ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥४४॥
अ॒यम्। नः॒। अग्निः॒। वरि॒॑वः। कृ॒णो॒तु॒। अ॒यम्। मृधः॑। पु॒रः। ए॒तु॒। प्र॒भि॒न्दन्निति॑ प्रऽभि॒न्दन्। अ॒यम्। वाजा॑न्। ज॒य॒तु॒। वाज॑साता॒विति॒ वाज॑ऽसातौ। अ॒यम्। शत्रू॑न्। ज॒य॒तु॒। जर्हृ॑षाणः। स्वाहा॑ ॥४४॥.
हिन्दी - स्वामी दयानन्द सरस्वती
अब सङ्ग्राम में परमेश्वर के उपासक शूरवीरों को किस प्रकार युद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सङ्ग्रामे ब्रह्मोपासकैः शूरवीरैः कथं योद्धव्यमित्युदिश्यते ॥
(अयम्) सर्वाभिरक्षकः (नः) अस्माकम् (अग्निः) वैद्यविद्याप्रकाशकः सर्वरोगनिवारकः सद्वैद्यः (वरिवः) सुखकारकं सेवनम् (कृणोतु) करोतु (अयम्) मुख्ययोद्धा (मृधः) सङ्ग्रामात् (पुरः) पुरस्तात् (एतु) गच्छतु (प्रभिन्दन्) विदारयन् (अयम्) वक्तृत्वेनोपदेष्टुं कुशलो योद्धा (वाजान्) वेगादिगुणयुक्तान् स्वसेनास्थान् वीरान् (जयतु) उत्कर्षतु (वाजसातौ) वाजानां सङ्ग्रामाणां संविभागे (अयम्) सर्वोत्कृष्टः (शत्रून्) धर्मशातकान् (जयतु) स्वोत्कर्षाय तिरस्करोतु (जर्हृषाणः) भृशमाह्लादितः (स्वाहा) वैद्यकयुद्धविद्यया शिक्षितया वाचा। स्वाहेति वाङ्नामसु पठितम्। (निघं०१.११)। अयं मन्त्रः (शत०४.३.४.१३) व्याख्यातः ॥४४॥