हिन्दी - स्वामी दयानन्द सरस्वती
इसके पीछे सूर्य्य की उपमा से ईश्वर के गुणों का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सूर्य्यदृष्टान्तेनेश्वरस्य गुणा उपदिश्यन्ते ॥
(उत्) क्रियायोगे (उ) वितर्के (त्यम्) अमुम् (जातवेदसम्) जातानि भूतानि सर्वाणि वेद, जातान् मूर्त्तिमतः पदार्थान् विन्दत इति वा तम्। इमं पदं यास्कमुनिरेवं निर्वक्ति−‘जातवेदाः कस्माज्जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातविद्यो वा जातप्रज्ञानो यत्तज्जात पशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति’। (निरु०७.१९) (देवम्) दिव्यगुणसम्पन्नम् (वहन्ति) प्रापयन्ति (केतवः) प्रज्ञानानि, केतुरिति प्रज्ञानामसु पठितम्। (निघं०३.९) (दृशे) द्रष्टुम्, दृशे विख्ये च। (अष्टा०३.४.११) (विश्वाय) सर्वार्थाय (सूर्य्यम्) यः स्रियते विज्ञाप्यते वा विप्रैर्विद्वद्भिश्च तम् (स्वाहा) सत्यया वाचा ॥ इमं मन्त्रं यास्कमुनिरेवं व्याचष्टे−‘उद्वहन्ति तं जातवेदसं रश्मयः केतवः सर्वेषां भूतानां दर्शनाय सूर्य्यमिति कमन्यमादित्यादेवमवक्ष्यत्’। (निरु०१२.१५) अयं मन्त्रः (शत०४.६.२.२) व्याख्यातः ॥४१॥