श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ताऽअ॒मृत॑स्य॒ पत्नीः॑। ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत ॥३४॥
श्वा॒त्राः। स्थ॒। वृ॒त्र॒तुर॒ इति॑ वृत्र॒ऽतुरः॑। राधो॑गूर्त्ता॑ इति॑ राधः॑ऽगूर्त्ताः। अ॒मृत॑स्य। पत्नीः॑। ताः। दे॒वीः॒। दे॒व॒त्रेति॑ देव॒ऽत्रा। इ॒मम्। य॒ज्ञम्। न॒य॒त॒। उप॑हूता॒ इत्यु॑पऽहूताः। सोम॑स्य। पि॒ब॒त॒ ॥३४॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब उक्त सभाध्यक्षादिकों की स्त्री कैसे कर्म्म करनेवाली हों, यह अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथोक्तानां सभापत्यादिविदुषां पत्न्यः कीदृशकर्मानुष्ठात्र्यो भवन्त्वित्युपदिश्यते ॥
(श्वात्राः) श्वात्रं शीघ्रं कर्मविज्ञानं वर्त्तते यासां ताः। अर्शआदित्वादच्। श्वात्रमिति क्षिप्रनामसु पठितम्। (निघं०५.३) (स्थ) (वृत्रतुरः) वृत्रं मेघं तूर्वति यास्ता विद्युत इव (राधोगूर्त्ताः) धनवर्द्धिन्य एव (अमृतस्य) अतिस्वादिष्टस्य (पत्नीः) पत्न्यः (ताः) (देवीः) देदीप्यमानाः (देवत्रा) देवेषु पतिषु (इमम्) गृहसम्बन्धिनम् (यज्ञम्) सङ्गन्तव्यम् (नयत) (उपहूताः) सामीप्यमाहूताः (सोमस्य) सोमाद्योषधिनिष्पादितस्य सारम्। अत्र कर्मणि षष्ठी ॥ अयं मन्त्रः (शत०३.९.४.१६-१७) व्याख्यातः ॥३४॥