ऐ॒न्द्रः प्रा॒णोऽअङ्गे॑ऽअङ्गे॒ निदी॑ध्यदै॒न्द्रऽउ॑दा॒नोऽअङ्गे॑ऽअङ्गे॒ निधी॑तः। देव॑ त्वष्ट॒र्भूरि॑ ते॒ सꣳस॑मेतु॒ सल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति। दे॒व॒त्रा यन्त॒म॑वसे॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥२०॥
ऐ॒न्द्रः। प्रा॒णः। अङ्गे॑ऽअङ्ग॒ इत्यङ्गे॑ऽअङ्गे। नि। दी॒ध्य॒त्। ऐ॒न्द्रः। उ॒दा॒न इत्यु॑त्ऽआ॒नः। अङ्गे॑ऽअङ्ग॒ इत्यङ्गे॑ऽअङ्गे। निधी॑त॒ इति॒ निऽधीतः। देव॑। त्व॒ष्ट॒। भूरि॑। ते॒। सꣳस॒मिति॒ सम्ऽस॑म्। ए॒तु॒। सल॒क्ष्मेति॒ सऽल॑क्ष्म। यत्। विषु॑रूप॒मिति॒ वि॒षु॑ऽरूपम्। भवा॑ति। दे॒व॒त्रेति॑ देव॒ऽत्रा। यन्त॑म्। अव॑से। सखा॑यः। अनु॑। त्वा॒। मा॒ता॒। पि॒तरः॑। म॒द॒न्तु॒ ॥२०॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर संग्राम में वीर पुरुष आपस में कैसे वर्तें, यह उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तत्रान्योन्यं कथं वर्त्तेरन्नित्युपदिश्यते ॥
(ऐन्द्रः) इन्द्रो जीवो देवताऽस्य स ऐन्द्रः (प्राणः) शरीरस्थो वायुविशेषः (अङ्गे अङ्गे) यथा प्रत्यङ्गं प्रकाशते (नि) नितराम् (दीध्यत्) युद्धे शत्रून् वञ्चित्वा स्वयं प्रकाशेत (ऐन्द्रः) विद्युद्देवताकः (उदानः) य ऊर्ध्वमनिति (अङ्गे अङ्गे) यथा प्रत्यङ्गम् (निधीतः) निहित इव (देव) दिव्यविद्यासम्पन्न सेनाध्यक्ष ! (त्वष्टः) शत्रुबलच्छेत्तः ! (भूरि) बहु (ते) तव (सम् सम्) एकीभावे। अत्र प्रसमुपोदः पादपूरणे। (अष्टा०८.१.६) इति समित्यस्य द्वित्वम्। (एतु) प्राप्नोतु (सलक्ष्म) समानं लक्ष्म यस्य तत्। अत्र अन्येषामपि दृश्यते। (अष्टा०६.३.१३७) इति दीर्घः। (विषुरूपम्) व्यापकं विविधरूपं वा (भवाति) भवतु। (देवत्रा) देवं देवमिति देवत्रा (यन्तम्) गच्छन्तम् (अवसे) रक्षणाय (सखायः) सुहृदः सन्तः (अनु) (त्वा) त्वाम् (माता) जननी (पितरः) रक्षका जनकाः (मदन्तु) हर्षन्तु ॥ अयं मन्त्रः (शत०३.८.३.३७) व्याख्यातः ॥२०॥