परि॑ त्वा गिर्वणो॒ गिर॑ऽइ॒मा भ॑वन्तु वि॒श्वतः॑। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥२९॥
परि॑। त्वा। गि॒र्व॒णः॒। गिरः॑। इ॒माः। भ॒व॒न्तु॒। वि॒श्वतः॑। वृ॒द्धायु॒मिति॑ वृ॒द्धऽआ॑युम्। अनु॑। वृद्ध॑यः। जुष्टाः॑। भ॒व॒न्तु॒। जुष्ट॑यः ॥२९॥
हिन्दी - स्वामी दयानन्द सरस्वती
ईश्वर और सभाध्यक्ष से क्या-क्या होने को योग्य है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
ईश्वरसभाध्यक्षाभ्यां किं किं भवितुं योग्यमित्युपदिश्यते ॥
(परि) सर्वतः (त्वा) त्वाम् (गिर्वणः) गीर्भिः स्तोतुमर्हः (गिरः) स्तुतिवाचः (इमाः) मत्कृताः (भवन्तु) (विश्वतः) सर्वाः, अत्र प्रथमान्तात् तसिः। (वृद्धायुम्) वृद्ध इव आचरन्तम्, क्याच्छन्दसि। [अष्टा०३.२.१७०] इत्युः। (अनु) पश्चाद्भावे (वृद्धयः) वृध्यन्ते यास्ताः। (जुष्टाः) प्रीताः सेविता वा। (भवन्तु) (जुष्टयः) जुष्यन्ते प्रीयन्ते यास्ताः। अयं मन्त्रः (शत०३.६.१.२४) व्याख्यातः ॥२९॥
