वरु॑णस्यो॒त्तम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो॒ वरु॑णस्यऽऋत॒सद॑न्यसि॒ वरु॑णस्यऽऋत॒सद॑नमसि॒ वरु॑णस्यऽऋत॒सद॑न॒मासी॑द ॥३६॥
वरु॑णस्य। उ॒त्तम्भ॑नम्। अ॒सि॒। वरु॑णस्य। स्क॒म्भ॒सर्ज॑नी॒ऽइति॑ स्कम्भ॒ऽसर्जनी॑। स्थः॒। वरु॑णस्य। ऋ॒त॒सद॒नीत्यृ॑तऽसद॑नी। अ॒सि॒। वरु॑णस्य। ऋ॒त॒सद॑न॒मित्यृ॑त॒ऽसद॑नम्। अ॒सि॒। वरु॑णस्य। ऋ॒त॒सद॑न॒मित्यृ॑त॒ऽसद॑नम्। आ। सी॒द॒ ॥३६॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशावित्युपदिश्यते ॥
(वरुणस्य) वरितुं प्राप्तुं योग्यस्य श्रेष्ठस्य जगतः। वरुण इति पदनामसु पठितम्। (निघं०५.४) (उत्तम्भनम्) उत्कृष्टं प्रतिबन्धनम्। अत्र उदः स्थास्तम्भोः पूर्वस्य। (अष्टा०८.४.६१) अनेन सस्य पूर्वसवर्णादेशः (असि) अस्ति वा (वरुणस्य) वायोः। अनेन ज्ञानप्राप्तिगमधातोरर्थस्य ग्रहणम् (स्कम्भसर्जनी) या क्रिया स्कम्भानामाधारकाणां सर्जन्युत्पादिका सा (स्थः) स्तः (वरुणस्य) सूर्य्यस्य (ऋतसदनी) या क्रिया ऋतानां जलानां सदनी गमनागमनकारिणी (असि) अस्ति वा (वरुणस्य) वरपदार्थसमूहस्य (ऋतसदनम्) ऋतानां यथार्थानां पदार्थानां सदनं स्थानम् (असि) अस्ति वा (वरुणस्य) उत्कृष्टगुणसमूहस्य (ऋतसदनम्) यदृतानां सत्यानां बोधानां स्थानं तत् (आ) समन्तात् (सीद) प्रापयसि प्रापयति वा। अयं मन्त्रः (शत०३.३.४.२५-२९) व्याख्यातः ॥३६॥