अदि॑त्या॒स्त्वग॒स्यदि॑त्यै॒ सद॒ऽआसी॑द। अस्त॑भ्ना॒द् द्यां वृ॑ष॒भोऽअ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्याः। आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥३०॥
अदि॑त्याः। त्वक्। अ॒सि॒। अदि॑त्यै। सदः॑। आ। सी॒द॒। अस्त॑भ्नात्। द्याम्। वृ॒ष॒भः। अ॒न्तरिक्ष॑म्। अमि॑मीत। व॒रि॒माण॑म्। पृ॒थि॒व्याः। आ। अ॒सी॒द॒त्। विश्वा॑। भुव॑नानि। स॒म्राडिति॑ स॒म्ऽराट्। विश्वा॑। इत्। तानि॑। वरु॑णस्य। व्र॒तानि॑ ॥३०॥
हिन्दी - स्वामी दयानन्द सरस्वती
अगले मन्त्र में ईश्वर, सूर्य्य और वायु के गुणों का उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथेश्वरसूर्य्यवायुगुणा उपदिश्यन्ते ॥
(अदित्याः) पृथिव्यादेः (त्वक्) यस्त्वचति संवृणोति सः (असि) अस्ति वा, अत्र पक्षे सर्वत्र व्यत्ययः (अदित्यै) पृथिव्यादिसृष्टये (सदः) स्थापनम् (आ) समन्तात् (सीद) सादयति वा, अत्र व्यत्ययोऽन्तर्गतो ण्यर्थश्च (अस्तभ्नात्) स्तभ्नासि, स्तभ्नाति धरति वा। अत्र लडर्थे लङ् (द्याम्) सूर्य्यादिकं प्रकाशं वा (वृषभः) श्रेष्ठः (अन्तरिक्षम्) अवकाशम् (अमिमीत) निर्मिमीते, अत्रापि लडर्थे लङ् (वरिमाणम्) वरस्य भावम् (पृथिव्याः) अन्तरिक्षस्यावकाशस्य मध्ये। पृथिवीत्यन्तरिक्षनामसु पठितम्। (निघं०१.३) (आ) सर्वतः (असीदत्) सादयसि, सादयत्यवस्थापयति वा (विश्वा) सर्वाणि (भुवनानि) लोकान् (सम्राट्) यः सम्यग्राजते सः (विश्वा) अखिलानि (इत्) एव (तानि) एतानि (वरुणस्य) परमेश्वरस्य, सूर्य्यस्य, वायोर्वा (व्रतानि) शीलानि। अयं मन्त्रः (शत०३.३.४.१-५) व्याख्यातः ॥३०॥