मि॒त्रो न॒ऽएहि॒ सुमि॑त्रध॒ऽइन्द्र॑स्यो॒रुमावि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ꣳ स्यो॒नः स्यो॒नम्। स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑ सोम॒क्रय॑णा॒स्तान् र॑क्षध्वं॒ मा वो॑ दभन् ॥२७॥
मि॒त्रः। नः॒। आ। इ॒हि॒। सुमि॑त्रध॒ इति॒ सुऽमि॑त्रधः। इन्द्र॑स्य। उ॒रुम्। आ। वि॒श॒। दक्षि॑णम्। उ॒शन्। उ॒शन्त॑म्। स्यो॒नः। स्यो॒नम्। स्वान॑। भ्राज॑। अङ्घा॑रे। बम्भा॑रे। हस्त॑। सुह॒स्तेति॒ सुऽहस्त॑। कृशा॑नो॒ऽइति॒ कृशानो। ए॒ते। वः॒। सो॒म॒क्रय॑णा॒ इति॑ सोम॒ऽक्रय॑णाः। तान्। र॒क्ष॒ध्व॒म्। मा। वः॒। द॒भ॒न् ॥२७॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को विद्वान् मनुष्य के साथ और विद्वान् को सब मनुष्यों के संग कैसे वर्त्तना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैर्विदुषा सह विदुषैतैश्च कथं वर्त्तितव्यमित्यपुदिश्यते ॥
(मित्रः) सुहृत् सन् (नः) अस्मान् (आ) आगमने (इहि) प्राप्नुहि (सुमित्रधः) यः शोभनानि मित्राणि दधाति सः (इन्द्रस्य) सभाद्यध्यक्षस्य विदुषः (उरुम्) बह्वाच्छादनं स्वीकरणं वा (आ) समन्तात् (विश) (दक्षिणम्) उत्तमाङ्गं दक्षिणभागम् (उशन्) कामयन् (उशन्तम्) कामयन्तम् (स्योनः) सुखकारकः (स्योनम्) सुखम्। स्योनमिति सुखनामसु पठितम्। (निघं०३.६) (स्वान) स्वनत्युपदिशति यस्तत्सम्बुद्धौ (भ्राज) यो भ्राजते प्रकाशते तत्सम्बुद्धौ (अङ्घारे) अङ्घस्य छलस्यारिः शत्रुस्तत्सम्बुद्धौ (बम्भारे) बन्धानां सुविचारनिरोधकानां शत्रुस्तत्सम्बुद्धौ। अत्र वर्णव्यत्ययेन धस्य भः (हस्त) हसन्ति प्रसन्ना भवन्ति यस्मात् तत्सम्बुद्धौ (सुहस्त) शोभना हस्तक्रिया यस्य तत्सम्बुद्धौ (कृशानो) दुष्टान् कृशति तत्सम्बुद्धौ (एते) सर्वे धार्मिकाः प्रजास्था भृत्या वा (वः) युष्मान् (सोमक्रयणाः) ये सोमानुत्तमान् पदार्थान् क्रीणन्ति ते (तान्) सर्वान् (रक्षध्वम्) सततं पालयत। अत्र व्यत्येनात्मनेपदम् (मा) निषेधे (वः) युष्मान् (दभन्) हिंसेयुः। अत्र व्यत्ययो लिङर्थे लङ् च। अयं मन्त्रः (शत०३.३.३.१०-१२) व्याख्यातः ॥२७॥