अ॒भि त्यं दे॒वꣳ स॑वि॒तार॑मो॒ण्योः᳖ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वꣳ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम्। ऊ॒र्ध्वा यस्या॒मति॒र्भाऽअदि॑द्यु॒त॒त् सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा स्वः॑। प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ॥२५॥
अ॒भि। त्यम्। दे॒वम्। स॒वि॒ता॑रम्। ओण्योः᳖। क॒विक्र॑तु॒मिति॑ क॒विऽक्र॑तु॒म्। अर्चा॑मि। स॒त्यस॑व॒मिति॑ स॒त्यऽस॑वम्। र॒त्न॒ऽधामिति॑ रत्न॒धाम्। अ॒भि। प्रि॒यम्। म॒तिम्। क॒विम्। ऊ॒र्ध्वा। यस्य॑। अ॒मतिः॑। भाः। अदि॑द्यु॒तत्। सवी॑मनि। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। अ॒मि॒मी॒त॒। सु॒क्रतु॒रिति॑ सु॒ऽक्रतुः॑। कृ॒पा। स्व॒रिति॒ स्वः॑। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। त्वा॒। प्र॒जा इति॑ प्र॒ऽजाः। त्वा॒। अ॒नु॒प्राण॒न्त्वित्य॑नु॒ऽप्राण॑न्तु॒। प्र॒जा इति॑ प्र॒ऽजाः। त्वम्। अ॒नु॒ऽप्राणि॒हीत्य॑नु॒ऽप्राणि॑हि ॥२५॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में ईश्वर, राजसभा और प्रजा के गुणों का उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरीश्वरराजसभाप्रजागुणा उपदिश्यन्ते ॥
(अभि) आभिमुख्ये (त्यम्) जगदीश्वरं राजसभास्थजनसमूहं वा (देवम्) सुखदातारम् (सवितारम्) देवानामग्न्यादीनां रसानां वा प्रसवितारम् (ओण्योः) द्यावापृथिव्योः। ओण्योरिति द्यावापृथिवीनामसु पठितम्। (निघं०३.३०) (कविक्रतुम्) कविः सर्वज्ञा सकलविद्यायुक्ता क्रतुः प्रज्ञा कर्म क्रमदर्शनं वा यस्य तम्। कविः क्रान्तदर्शनो भवति कवतेर्वा। (निरु०१२.१३) (अर्चामि) पूजयामि (सत्यसवम्) सत्यं सव ऐश्वर्य्यं जगद्वा यस्मिन् यस्य वा तम् (रत्नधाम्) यो रत्नानि रमणीयानि विज्ञानानि हीरकादीनि भुवनानि वा दधातीति तम् (अभि) आभिमुख्ये (प्रियम्) यः प्रीणाति तम् (मतिम्) यो वेदादिशास्त्रैर्विद्वद्भिश्च मन्यते तम् (कविम्) वेदविद्याया उपदेष्टारं निमित्तं वा (ऊर्ध्वा) उत्कृष्टा (यस्य) सच्चिदानन्दस्वरूपस्य शुभगुणयुक्तस्य वा (अमतिः) रूपम्। अमतिरिति रूपनामसु पठितम्। (निघं०३.७) (भा) यो भाति प्रकाशते सः (अदिद्युतत्) प्रकाशितवान्, प्रकाशयति वा (सवीमनि) यः सूयते संसारस्तस्मिन् (हिरण्यपाणिः) हिरण्यानि ज्योतींषि सूर्य्यादीनि सुवर्णादीनि वा पाणौ व्यवहारे यस्य सः। ज्योतिर्हि हिरण्यम्। (शत०४.३.४.२१) इति प्रमाणेन हिरण्यशब्देन ज्योतिषो ग्रहणम् (अमिमीत) निर्मितवान् निर्मिमीते वा (सुक्रतुः) शोभनः क्रतुः प्रज्ञा कर्म वा यस्य स (कृपा) करुणा (स्वः) सुखमादित्यं वा। स्वरादित्यो भवति स एनानि सारयति। (निरु०५.४) (प्रजाभ्यः) उत्पन्नाभ्यः सृष्टिभ्यः (त्वा) त्वाम् (प्रजाः) मनुष्यादिसृष्टयः (त्वा) त्वाम् (अनुप्राणन्तु) आयुर्भुञ्जताम् (प्रजाः) जगत्स्थाः (त्वम्) अयं वा (अनुप्राणिहि) जीवतोऽनुजीवनं धर धरति वा। अयं मन्त्रः (शत०३.३.२.१२-१९) व्याख्यातः ॥२५॥