अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः। सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ꣳ रु॒द्रस्त्वा॑वर्त्तयतु स्वस्ति सोम॑सखा॒ पुन॒रेहि॑ ॥२०॥
अनु॑। त्वा॒। मा॒ता। म॒न्य॒ता॒म्। अनु॑। पि॒ता। अनु॑। भ्राता॑। सग॑र्भ्य॒ इति॒ सऽग॑र्भ्यः। अनु॑। सखा॑। सयू॑थ्य॒ इति॒ सऽयू॑थ्यः। सा। दे॒वि॒। दे॒वम्। अच्छ॑। इ॒हि॒। इन्द्रा॑य। सोम॑म्। रु॒द्रः। त्वा॒। आ। व॒र्त्त॒य॒तु॒। स्व॒स्ति॑। सोम॑स॒खेति॒ सोम॑ऽसखा। पुनः॑। आ। इ॒हिः॒ ॥२०॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह वाणी और बिजुली कैसी हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्ते कीदृश्यावित्युपदिश्यते ॥
(अनु) अन्यभावे (त्वा) त्वाम् (माता) जननी (मन्यताम्) विज्ञापयतु स्वीकुरुताम् (अनु) पुनरर्थे (पिता) जनकः (अनु) पश्चादर्थे। अन्विति सादृश्यापरभावम् (निरु०१.३) (भ्राता) बन्धुः (सगर्भ्यः) समानश्चासौ गर्भः सगर्भस्तस्मिन् भवः। अत्र सगर्भसयूथसनुताद्यन्। (अष्टा०४.४.११४) इति सूत्रेण भवार्थे यन् प्रत्ययः (अनु) आनुकूल्ये (सखा) मित्रः (सयूथ्यः) समानश्चासौ यूथः समूहस्तस्मिन् भवः। पूर्वसूत्रेणास्य सिद्धिः (सा) पूर्वोक्ता (देवि) देदीप्यमाना (देवम्) परमेश्वरं विद्यायुक्तं शुद्धव्यवहारं वा (अच्छ) सम्यग्रीत्या (इहि) जानीहि प्राप्नुहि वा (इन्द्राय) परमैश्वर्य्यप्राप्तये (सोमम्) उत्तमपदार्थसमूहम् (रुद्रः) परमेश्वरः। चतुश्चत्वारिंशद्वर्षकृतब्रह्मचर्यो विद्वान् वा (त्वा) ताम् (आ) समन्तात् (वर्त्तयतु) प्रवृत्तं कारयतु (स्वस्ति) शोभनमस्ति यस्मिन् प्राप्तव्ये तत्सुखम्। स्वस्तीति पदनामसु पठितम्। (निघं०५.५) (सोमसखा) सोमः परमेश्वरः सोमविद्याविन्मनुष्यो वा सखा सुहृद्यस्य सः (पुनः) पश्चात् (आ) समन्तात् (इहि) प्राप्नुहि प्राप्नोति वा। अयं मन्त्रः (शत०३.२.४.२०-२१) व्याख्यातः ॥२०॥