तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो᳖ य॒न्त्रम॑शीय॒ स्वाहा॑। शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥१८॥
तस्याः॑। ते॒। स॒त्यस॑वस॒ इति॑ स॒त्यऽस॑वसः। प्र॒स॒व इति॑ प्रऽस॒वे। त॒न्वः᳖। य॒न्त्रम्। अ॒शी॒य॒। स्वाहा॑। शु॒क्रम्। अ॒सि॒। च॒न्द्रम्। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। वै॒श्व॒दे॒वमिति॑ वैश्वऽदे॒वम्। अ॒सि॒ ॥१८॥
हिन्दी - स्वामी दयानन्द सरस्वती
वह वाणी और बिजुली कैसी है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
ते वाग्विद्युतौ कीदृशावित्युपदिश्यते ॥
(तस्याः) वाचो विद्युतो वा (ते) तव (सत्यसवसः) सत्यं सवं ऐश्वर्य्यं जगत्कारणं वा यस्य तस्य परमात्मनः (प्रसवे) उत्पादिते संसारे (तन्वः) शरीरस्य। अत्र जसादिषु छन्दसि वा वचनम्। [अष्टा०भा०वा० ७.३.१०९] इति वार्तिकेनाडभावः (यन्त्रम्) यन्त्रयति संकुचति चालयति निबध्नाति वा येन तत् (अशीय) प्राप्नुयाम् (स्वाहा) वाचं विद्युतं वा (शुक्रम्) शुद्धम् (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (चन्द्रम्) आह्लादकारकम् (असि) अस्ति (अमृतम्) अमृतात्मकव्यवहारपरमार्थसुखसाधकम् (असि) अस्ति (वैश्वदेवम्) यद्विश्वेषां देवानां विदुषामिदं तत् (असि) अस्ति। अयं मन्त्रः (शत०३.२.४.१२-१५) व्याख्यातः ॥१८॥