पुन॒र्मनः॒ पुन॒रायु॑र्म॒ऽआग॒न् पुनः॑ प्रा॒णः पुन॑रा॒त्मा म᳖ऽआग॒न् पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ म॒ऽआग॑न्। वै॒श्वा॒न॒रोऽद॑ब्धस्तनू॒पाऽअ॒ग्निर्नः॑ पातु दुरि॒ताद॑व॒द्यात् ॥१५॥
पुनः॑। मनः॑। पुनः॑। आयुः॑। मे॒। आ। अ॒ग॒न्। पुन॒रिति॒ पुनः॑। प्रा॒णः। पुनः॑। आ॒त्मा। मे॒। आ। अ॒ग॒न्। पुन॒रिति॒ पुनः॑। चक्षुः॑। पुन॒रिति॒ पुनः॑। श्रोत्र॑म्। मे॒। आ। अ॒ग॒न्। वै॒श्वा॒न॒रः। अद॑ब्धः। त॒नू॒पा इति॑ तनू॒ऽपाः। अ॒ग्निः। नः॒ पा॒तु॒। दु॒रि॒तादिति॑ दुःइ॒तात्। अ॒व॒द्यात् ॥१५॥
हिन्दी - स्वामी दयानन्द सरस्वती
जीव अग्नि, वायु आदि पदार्थों के निमित्त से जगने के समय वा दूसरे जन्म में प्रसिद्ध मन आदि इन्द्रियों को प्राप्त होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
जीवा अग्निवाय्वादिनिमित्तेन जागरणे पुनर्जन्मनि वा प्रसिद्धानि मनआदीनीन्द्रियाणि प्राप्नुवन्तीत्युपदिश्यते ॥
(पुनः) शयनानन्तरं जागरणे, द्वितीये जन्मनि वा (मनः) विज्ञानसाधकम् (पुनः) पश्चाज्जन्मानन्तरम् (आयुः) येन जीवनम् (मे) मह्यम् (आ) समन्तात् (अगन्) प्राप्नोति। अत्र सर्वत्र लडर्थे लुङ्। मन्त्रे घस०। [अष्टा०२.४.८०] इति च्लेर्लुक्। मो नो धातोः। [अष्टा०८.२.६४] इति मकारस्य नकारः (पुनः) वारंवारम् (प्राणः) शरीराधारकः (पुनः) पश्चात् मनुष्यदेहधारणानन्तरम् (आत्मा) अतति सर्वत्र व्याप्नोतीति सर्वान्तर्य्यामी परमात्मा, स्वस्वभावो वा (मे) मह्यम् (आ) अभितः (अगन्) प्राप्नोति (पुनः) पश्चात् (चक्षुः) चष्टे येन तद्रूपग्राहकमिन्द्रियम् (पुनः) अग्रे (श्रोत्रम्) शृणोति शब्दान् येन तच्छब्दग्राहकमिन्द्रियम् (मे) मह्यम् (आ) आभिमुख्ये (अगन्) प्राप्नोति (वैश्वानरः) शरीरनेता जाठराग्निः, सर्वस्य नेता परमेश्वरो वा (अदब्धः) हिंसितुमनर्हः (तनूपाः) यः शरीरमात्मानं च रक्षति (अग्निः) अन्तःस्थो विज्ञानस्वरूपो वा (नः) अस्मान् (पातु) पालयति पालयतु वा (दुरितात्) पापजन्यात् प्राप्तव्याद् दुःखाद् दुष्टकर्मणो वा (अवद्यात्) पापाचरणात्। अयं मन्त्रः (शत०३.२.२.२३) व्याख्यातः ॥१५॥