उद्व॒यन्तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ऽ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥२४ ॥
उत्। व॒यम्। तम॑सः। परि॑। स्व᳖रिति॒ स्वः᳖। पश्य॑न्तः। उत्त॑र॒मित्यु॑त्ऽत॑रम् ॥ दे॒वम्। दे॒व॒त्रेति॑ देव॒ऽत्रा। सूर्य्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम् ॥२४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कैसा पुरुष सुख को प्राप्त होवे, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कीदृशो जनः सुखमाप्नुयादित्याह ॥
(उत्) (वयम्) (तमसः) अन्धकारात् (परि) वर्जने (स्वः) सुखम् (पश्यन्तः) (उत्तरम्) सर्वेभ्यः पदार्थेभ्य उत्तरस्मिन् वर्त्तमानम् (देवम्) दिव्यगुणकर्मस्वभावम् (देवत्रा) देवेषु दिव्येषु पदार्थेषु (सूर्य्यम्) सवितृवत् प्रकाशमयम् (अगन्म) (ज्योतिः) सर्वस्य प्रकाशकम् (उत्तमम्) सर्वोत्कृष्टम् ॥२४ ॥