अश्वि॑ना घ॒र्मं पा॑त॒ꣳ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभिः॑। त॒न्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥१२ ॥
अश्वि॑ना। घ॒र्मम्। पा॒त॒म्। हार्द्वा॑नम्। अहः॑। दि॒वाभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑ ॥ त॒न्त्रा॒यिणे॑। नमः॑। द्यावा॑पृथि॒वीभ्या॑म् ॥१२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अश्विना) सुशिक्षितौ स्त्रीपुरुषौ (घर्मम्) (पातम्) रक्षतम् (हार्द्वानम्) हृदं वनति सम्भजति येन तदेव (अहः) प्रतिदिनम् (दिवाभिः) अहर्निशवर्त्तमानाभिः (ऊतिभिः) रक्षादिभिः (तन्त्रायिणे) तन्त्राणि कलाशास्त्राणि अयितुं ज्ञातुं प्राप्तुं वा शीलं यस्य तस्मै (नमः) अन्नम् (द्यावापृथिवीभ्याम्) सूर्यान्तरिक्षाभ्याम् ॥१२ ॥
