आ॒युष्यं᳖ वर्च्च॒स्य᳖ꣳ रा॒यस्पोष॒मौद्भि॑दम्। इ॒दꣳ हिर॑ण्यं॒ वर्च्च॑स्व॒ज्जैत्रा॒यावि॑शतादु॒ माम् ॥५० ॥
आ॒यु॒ष्य᳖म्। व॒र्च॒स्य᳖म्। रा॒यः। पोष॑म्। औद्भि॑दम् ॥ इ॒दम्। हिर॑ण्यम्। वर्च॑स्वत्। जैत्रा॑य। आ। वि॒श॒ता॒त्। ऊँ॒ऽइत्यूँ॑। माम् ॥५० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब ऐश्वर्य और जय आदि सम्पादन विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथैश्वर्यजयादिसंपादनविषयमाह ॥
(आयुष्यम्) आयुषे जीवनाय हितम् (वर्चस्यम्) वर्चसेऽध्ययनाय हितम् (रायः) (पोषम्) धनस्य पोषकम् (औद्भिदम्) उद्भिनत्ति दुःखानि येन तदेव (इदम्) (हिरण्यम्) तेजोमयं सुवर्णादिकम् (वर्चस्वत्) प्रशस्तानि वर्चांस्यन्नानि यस्मात् तत् (जैत्राय) जयाय (आ) (विशतात्) समन्तात् विशतु (उ) एव (माम्) ॥५० ॥
