सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑। अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ऽआ व॑हन्तु ॥३९ ॥
सम्। अ॒ध्व॒राय॑। उ॒षसः॑। न॒म॒न्त॒। द॒धि॒क्रावे॒वेति॑ दधि॒ऽक्रावा॑ऽइव। शुच॑ये। प॒दाय॑ ॥ अ॒र्वा॒ची॒नम्। व॒सु॒विद॒मिति॑ वसु॒ऽविद॑म्। भग॑म्। नः॒। रथ॑मि॒वेति॒ रथ॑म्ऽइव। अश्वाः॑। वाजिनः॑। आ। व॒ह॒न्तु॒ ॥३९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(सम्) (अध्वराय) अहिंसामयाय व्यवहाराय (उषसः) प्रभाताः (नमन्त) नमन्ति (दधिक्रावेव) यथा धारकः क्रमितोऽश्वस्तथा (शुचये) पवित्राय (पदाय) प्रापणीयाय (अर्वाचीनम्) इदानीन्तनम् (वसुविदम्) येन वसूनि विविधानि धनानि विन्दति तम् (भगम्) ऐश्वर्ययुक्तम् (नः) अस्मान् (रथमिव) रमणीयं यानमिव (अश्वाः) आशुगामिनः (वाजिनः) तुरङ्गाः (आ) (वहन्तु) गमयन्तु ॥३९ ॥