हिर॑ण्यहस्तो॒ऽअसु॑रः सुनी॒थः सु॑मृडी॒कः स्ववाँ॑ यात्व॒र्वाङ्। अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द् दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥२६ ॥
हिर॑ण्यहस्त॒ इति॒ हिर॑ण्यऽहस्तः। असु॑रः। सु॒नी॒थ इति॑ सुऽनी॒थः। सु॒मृ॒डी॒क इति॑ सुमृडी॒कः। स्ववा॒निति॒ स्वऽवा॑न्। या॒तु॒। अ॒र्वाङ् ॥ अ॒प॒सेध॒न्नित्य॑प॒ऽसेध॑न्। र॒क्षसः॑। या॒तु॒धाना॒निति॑ यातु॒ऽधाना॑न्। अस्था॑त्। दे॒वः। प्र॒ति॒दो॒षमिति॑ प्रतिऽदो॒षम्। गृ॒णा॒नः ॥२६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(हिरण्यहस्तः) हिरण्यानि ज्योतींषि हस्तवद् यस्य सः (असुरः) प्रक्षेप्ता (सुनीथः) यः सुष्ठु नयति सः (सुमृडीकः) सुष्ठु सुखकरः (स्ववान्) स्वे स्वकीयाः प्रकाशादयो गुणा विद्यन्ते यस्मिन् सः। अत्र दीर्घादटि समानपादे ॥ (अष्टा०८.३.९) रुत्वे भोभगो० [अ०८.३.१७] इत्यनेन रोर्यादेशे च हलि सर्वेषाम् [अ०८.३.२२] इति लोपः। (यातु) प्राप्नोतु (अर्वाङ्) योऽर्वाचीनान् अञ्चति प्राप्नोति सः (अपसेधन्) दूरीकुर्वन् (रक्षसः) दस्युचोरादीन् (यातुधानान्) अन्यायेन परपदार्थधारकान् (अस्थात्) उत्तिष्ठति उदेति (देवः) प्रकाशकः (प्रतिदोषम्) प्रतिजनं यो दोषस्तम्। अत्रोत्तरपदलोपः। (गृणानः) उच्चरयन् प्रकटयन् ॥२६ ॥