अषा॑ढं यु॒त्सु पृत॑नासु॒ पप्रि॑ꣳ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम्। भ॒रे॒षु॒जा सु॑क्षि॒तिꣳ सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥२० ॥
अषा॑ढम्। यु॒त्स्विति॑ यु॒त्ऽसु। पृत॑नासु। पप्रि॑म्। स्व॒र्षाम्। स्वःसामिति॑ स्वः॒ऽसाम्। अ॒प्साम्। वृ॒जन॑स्य। गो॒पाम् ॥ भ॒रे॒षु॒जामिति॑ भरेषु॒ऽजाम्। सु॒क्षि॒तिमिति॑ सुऽक्षि॒तिम्। सु॒श्रव॑स॒मिति॑ सु॒ऽश्रव॑सम्। जय॒न्तम्। त्वाम्। अनु॑ म॒दे॒म॒। सो॒म॒ ॥२० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब राजधर्म विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ राजधर्मविषयमाह ॥
(अषाढम्) सोढुमनर्हम् (युत्सु) युद्धेषु (पृतनासु) मनुष्यसेनासु (पप्रिम्) पूर्णबलविद्यं पालकं वा (स्वर्षाम्) यः स्वः सुखं सनति सम्भजति तम् (अप्साम्) योऽपो जलानि प्राणान् सनोति ददाति तम् (वृजनस्य) बलस्य (गोपाम्) रक्षकम् (भरेषुजाम्) भरेषु भरणीयेषु सङ्ग्रामेषु जेतारम् (सुक्षितिम्) शोभना क्षितिः पृथिवीराज्यं यस्य तम्। क्षितिरिति पृथिवीनामसु पठितम् ॥ (निघं०१.१) (सुश्रवसम्) शोभनानि श्रवांस्यन्नानि यशांसि वा यस्य तम्। (जयन्तम्) शत्रूणां विजेतारम् (त्वाम्) (अनु) पश्चात् (मदेम) (सोम) सकलैश्वर्यसम्पन्न ! ॥२० ॥