प्र व॒ऽइन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत। वृ॒त्रꣳ ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥९६ ॥
प्र। वः॒। इन्द्रा॑य। बृ॒ह॒ते। मरु॑तः। ब्रह्म॑। अ॒र्च॒त॒ ॥ वृ॒त्रम्। ह॒न॒ति॒। वृ॒त्र॒हेति॑ वृत्र॒ऽहा। श॒तक्र॑तु॒रिति॑ श॒तऽक्र॑तुः। वज्रे॑ण। श॒तप॑र्व॒णेति॑ श॒तऽप॑र्वणा ॥९६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
(प्र) (वः) युष्मभ्यम् (इन्द्राय) परमैश्वर्याय (बृहते) (मरुतः) मनुष्याः (ब्रह्म) धनमन्नं वा (अर्चत) सत्कुरुत (वृत्रम्) मेघम् (हनति) हन्ति। अत्र बहुलं छन्दसि [अ०२.४.७३] इति शपो लुक् न। (वृत्रहा) यो वृत्रं हन्ति (शतक्रतुः) शतमसङ्ख्याताः क्रतवः प्रज्ञाः कर्माणि वा यस्य सः (वज्रेण) शस्त्रास्त्रविशेषेण (शतपर्वणा) शतस्यासङ्ख्यातस्य जीवजातस्य पर्वणा पालनं यस्मात् तेन ॥९६ ॥