मू॒र्द्धानं॑ दि॒वोऽअ॑र॒तिं पृ॑थि॒व्या वैश्वान॒रमृ॒तऽआ जा॒तम॒ग्निम्। क॒विꣳ स॒म्राज॒मति॑थिं॒॑ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥८ ॥
मू॒र्द्धान॑म्। दि॒वः। अ॒र॒तिम्। पृ॒थि॒व्याः। वै॒श्वा॒न॒रम्। ऋ॒ते। आ। जा॒तम्। अ॒ग्निम् ॥ क॒विम्। स॒म्राज॒मिति॑ स॒म्ऽराज॑म्। अति॑थिम्। जना॑नाम्। आ॒सन्। आ। पात्र॑म्। ज॒न॒य॒न्त॒। दे॒वाः ॥८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(मूर्द्धानम्) शिरोवदुन्नतप्रदेशे सूर्यरूपेण वर्त्तमानम् (दिवः) आकाशस्य (अरतिम्) प्राप्तम् (पृथिव्याः) (वैश्वानरम्) विश्वेभ्यो नरेभ्यो हितम् (ऋते) यज्ञनिमित्तम् (आ) समन्तात् (जातम्) प्रादुर्भूतम् (अग्निम्) पावकम् (कविम्) क्रान्तदर्शकम् (सम्राजम्) यः सम्यग्राजते तम् (अतिथिम्) अतिथिवद्वर्त्तमानम् (जनानाम्) मनुष्याणाम् (आसन्) मुखे उत्पन्नम् (आ) समन्तात् (पात्रम्) पान्ति रक्षन्ति येन तम् (जनयन्त) प्रादुर्भावयेयुः (देवाः) विद्वांसः ॥८ ॥