अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑। विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥६७ ॥
अनु॑। ते॒। शुष्म॑म्। तु॒रय॑न्तम्। ई॒य॒तुः॒। क्षो॒णीऽइति॑ क्षो॒णी। शिशु॑म्। न। मा॒तरा॑ ॥ विश्वाः॑। ते॒। स्पृधः॑। श्न॒थ॒य॒न्त॒। म॒न्यवे॑। वृ॒त्रम्। यत्। इ॒न्द्र॒। तूर्व॑सि ॥६७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अनु) (ते) तव (शुष्मम्) शत्रूणां शोषकं बलम् (तुरयन्तम्) हिंसन्तम् (ईयतुः) गच्छतः (क्षोणी) स्वपरभूमी। क्षोणीति पृथिवीनामसु पठितम् ॥ (निघं०१.१) (शिशुम्) बालकम् (न) इव (मातरा) मातापितरौ (विश्वाः) अखिलाः (ते) तव (स्पृधः) अरिसेनाः (श्नथयन्तः) श्नथयन्ति हता भवन्ति। अत्राडभावः। (मन्यवे) क्रोधात्। पञ्चम्यर्थे चतुर्थी। (वृत्रम्) न्यायावरकं शत्रुम् (यत्) यम् (इन्द्र) शत्रुविदारक (तूर्वसि) हिनस्ति ॥६७ ॥