दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः। आ या॑तꣳ रुद्रवर्त्तनी ॥ तं प्र॒त्नथा॑। अ॒यं वे॒नः ॥५८ ॥
दस्रा॑। यु॒वाक॑वः। सु॒ताः। नास॑त्या। वृ॒क्तब॑र्हिष॒ इति॑ वृ॒क्तऽब॑र्हिषः। आ। या॒त॒म्। रु॒द्र॒व॒र्त्त॒नी॒ऽइति॑ रुद्रवर्त्तनी ॥५८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(दस्रा) दुष्टानां निवारकौ (युवाकवः) ये युवां कामयन्ते ते (सुताः) निष्पन्नाः (नासत्या) अविद्यमानासत्याचरणौ (वृक्तबर्हिषः) वृक्तं वर्जितं बर्हिर्यैस्ते (आ) (यातम्) समन्तात् प्राप्नुतम् (रुद्रवर्त्तनी) रुद्रस्य वर्त्तनिरिव वर्त्तनिर्ययोस्तौ ॥५८ ॥
