यो दे॒वेभ्य॑ऽआ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः। पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥२० ॥
यः। दे॒वेभ्यः॑। आ॒तप॒तीत्या॒ऽतप॑ति। यः। दे॒वाना॑म्। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः ॥ पूर्वः॑। यः। दे॒वेभ्यः॑। जा॒तः। नमः॑। रु॒चाय॑। ब्राह्म॑ये ॥२० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब सूर्य्य कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सूर्यः कीदृश इत्याह ॥
(यः) सूर्यः (देवेभ्यः) दिव्यगुणेभ्यः पृथिव्यादिभ्यः (आतपति) समन्तात् तपति (यः) (देवानाम्) पृथिव्यादिलोकानाम् (पुरोहितः) पुरस्ताद्धिताय मध्ये धृतः (पूर्वः) (यः) (देवेभ्यः) पृथिव्यादिभ्यः (जातः) उत्पन्नः (नमः) अन्नम् (रुचाय) रुचिकरात् (ब्राह्मये) यो ब्रह्मणः परमेश्वरस्यापत्यमिव तस्मात्। अत्रोभयत्र पञ्चम्यर्थे चतुर्थी ॥२० ॥