ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि। अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ऽअहि॑ꣳसन्नः शि॒वोऽती॑हि ॥६१॥
ए॒तत्। ते॒। रु॒द्र॒। अ॒व॒सम्। तेन॑। प॒रः। मूज॑वत॒ इति॒ मूज॑ऽवतः। अति॑। इ॒हि॒। अव॑ततध॒न्वेत्यव॑ततऽधन्वा। पिना॑कावस॒ इति॒ पिना॑कऽअवसः। कृत्ति॑वासा॒ इति॒ कृत्ति॑ऽवासाः। अहि॑ꣳसन्। नः॒। शि॒वः। अति॑। इ॒हि॒ ॥६१॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में रुद्र शब्द से शूरवीर के कर्मों का उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ रुद्रशब्देन शूरवीरकृत्यमुपदिश्यते ॥
(एतत्) उक्तं वक्ष्यमाणं च (ते) तव (रुद्र) रोदयति शत्रूँस्तत्सम्बुद्धौ शूरवीर ! (अवसम्) रक्षणं स्वाम्यर्थं वा (तेन) रक्षणादिना (परः) प्रकृष्टः समर्थः (मूजवतः) बहवो मूजा घासादयो विद्यन्ते यस्मिन् तस्मात् पर्वतात्। मूजवान् पर्वतः (निरु०९.८)। (अति) अतिक्रमणे (इहि) उल्लङ्घय। अत्रान्तर्गतो ण्यर्थः (अवततधन्वा) अवेति निगृहीतं ततं विस्तृतं धनुर्येन सः (पिनाकावसः) पिनष्टि शत्रून् येन तत् पिनाकम्। तेनावसो पिनाकस्यावसो रक्षणं वा यस्मात् सः। पिनाकं प्रतिपिनष्ट्यनेन (निरु०३.२१) (कृत्तिवासाः) कृत्तिश्चर्म तद्वद् दृढानि वासांसि धृतानि येन सः (अहिंसन्) अनाशयन् रक्षन् सन् (नः) अस्मान् (शिवः) सुखप्रदः (अति) अभिपूजितार्थे (निरु०१.३) (इहि) प्राप्नुहि। अयं मन्त्रः (शत०२.६.२.१६-१७) व्याख्यातः ॥६१॥