त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑त्। त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ॥६०॥
त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। य॒जा॒म॒हे॒। सु॒ग॒न्धिमिति॑ सुऽग॒न्धिम्। पु॒ष्टि॒वर्ध॑न॒मिति॑ पुष्टि॒ऽवर्ध॑नम्। उ॒र्वा॒रु॒कमि॒वेत्यु॑र्वारु॒कम्ऽइ॑व। बन्ध॑नात्। मृ॒त्योः। मु॒क्षी॒य॒। मा। अ॒मृता॑त्। त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। य॒जा॒म॒हे॒। सु॒ग॒न्धिमिति॑ सुऽग॒न्धिम्। प॒ति॒वेद॑न॒मिति॑ पति॒ऽवेद॑नम्। उ॒र्वा॒रु॒कमि॒वेत्यु॑र्वारु॒कम्ऽइ॑व। बन्ध॑नात्। इ॒तः। मु॒क्षी॒य॒। मा। अ॒मु॒तः॑ ॥६०॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
(त्र्यम्बकम्) उक्तार्थं रुद्रं जगदीश्वरम् (यजामहे) नित्यं पूजयेमहि (सुगन्धिम्) शोभनः शुद्धो गन्धो यस्मात् तम्। अत्र गन्धस्येदुत्पूतिसुसुरभिभ्यः (अष्टा०५.४.१३५) इति सूत्रेण समासान्त इकारादेशः। (पुष्टिवर्धनम्) पुष्टेः शरीरात्मबलस्य वर्धनस्तम्। अत्र नन्द्यादित्वाल्ल्युः प्रत्ययः। (उर्वारुकमिव) यथोर्वारुकफलं पक्वं भूत्वाऽमृतात्मकं भवति (बन्धनात्) लतासम्बन्धात् (मृत्योः) प्राणशरारात्मवियोगात् (मुक्षीय) मुक्तो भूयासम् (मा) निषेधे (अमृतात्) मोक्षसुखात् (त्र्यम्बकम्) सर्वाध्यक्षम् (यजामहे) सत्कुर्वीमहि (सुगन्धिम्) सुष्ठु गन्धो यस्मिँस्तम् (पतिवेदनम्) पाति रक्षति स पतिः पतेर्वेदनं प्रापणं ज्ञानं वा यस्मात् तम् (उर्वारुकमिव) उक्तोऽर्थः (बन्धनात्) उक्तोऽर्थः (इतः) अस्माच्छरीरान्मर्त्यलोकाद् वा (मुक्षीय) पृथग्भूयासम् (मा) निषेधार्थे (अमुतः) मोक्षाख्यात् परलोकात् परजन्मसुखफलाद् धर्माद्वा ॥ अत्राह यास्को निरुक्ते−त्र्यम्बको रुद्रस्तम् अम्बकं यजामहे सुगन्धिं सुष्ठुगन्धिं पुष्टिवर्धनं पुष्टिकारकमिवोर्वारुकमिव फलं बन्धनादारोधनान्मृत्योः सकाशात् मुञ्चस्व माम् (निरु०१३.४८)। अयं मन्त्रः (शत०२.६.२.१२-१४) व्याख्यातः ॥६०॥