अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒याऽअ॑धूषत। अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि᳖न्द्र ते॒ हरी॑ ॥५१॥
अक्ष॑न्। अमी॑मदन्त। हि। अव॑। प्रि॒याः। अ॒धू॒ष॒त॒। अस्तो॑षत। स्वभा॑नव॒ इति॑ स्वऽभा॑नवः। विप्राः॑। नवि॑ष्ठया। म॒ती। योज॑। नु। इ॒न्द्र॒। ते॒। हरी॒ऽइति॒ हरी॑ ॥५१॥
हिन्दी - स्वामी दयानन्द सरस्वती
उस यज्ञादि व्यवहार से क्या-क्या होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
तेन यज्ञादिव्यवहारेण किं भवतीत्युपदिश्यते ॥
(अक्षन्) अदन्ति। अत्र लडर्थे लुङ्। मन्त्रे घसह्व० [अष्टा०२.४.८०] इति च्लेर्लुक्। गमहनजन० [अष्टा०६.४.९८] इत्युपधालोपः। शासिवसिघ० [अष्टा०८.३.६०] इति षत्वम्। खरि च [अष्टा०८.४.५५] इति चर्त्वम्। (अमीमदन्त) आनन्दयन्ति, अत्र लडर्थे लुङ्। (हि) खलु (अव) विरुद्धार्थे (प्रियाः) प्रसन्नताकारकाः (अधूषत) दुष्टान् दोषाँश्च कम्पयन्ति। अत्र लडर्थे लुङ्। (अस्तोषत) स्तुवन्ति। अत्र लडर्थे लुङ्। (स्वभानवः) स्वकीया भानुर्दीप्तिः प्रकाशो येषां ते (विप्राः) मेधाविनः (नविष्ठया) अतिशयेन नवा नविष्ठा तया (मती) मत्या। अत्र सुपां सुलुग्० [अष्टा०७.१.३९] इति पूर्वसवर्णादेशः। (योज) योजयति। अत्र विकरणव्यत्ययेन शप्। लडर्थे लोडन्तर्गतो ण्यर्थो द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घश्च। (नु) क्षिप्रार्थे (इन्द्र) सभापते ! (ते) अस्य (हरी) बलपराक्रमौ। अयं मन्त्रः (शत०२.६.१.३८) व्याख्यातः ॥५१॥