भूर्भुवः॒ स्व᳕र्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा। तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठे᳕ऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ॥५॥
भूः। भुवः॑। स्वः॑। द्यौरि॒वेति॒ द्यौःऽइ॑व। भू॒म्ना। पृ॒थि॒वीवेति॑ पृथि॒वीऽइ॑व। व॒रि॒म्णा॒। तस्याः॑। ते॒। पृ॒थि॒वि॒। दे॒व॒य॒ज॒नीति॑ देवऽयजनि। पृ॒ष्ठे। अ॒ग्निम्। अ॒न्ना॒दमित्य॑न्नऽअ॒दम्। अ॒न्नाद्या॒येत्य॑न्न॒ऽअद्या॑य। आ। द॒धे॒ ॥५॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उस अग्नि का किसलिये उपयोग करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स किमर्थ उपयोजनीय इत्युपदिश्यते ॥
(भूः) भूमिः। भूरिति वै प्रजापतिरिमामजनयत। (भुवः) भुवरित्यन्तरिक्षम् (स्वः) स्वरिति दिवमेतावद्वा। इदꣳ सर्वं यावदिमे लोकाः। सर्वेणैवाधीयते। शत०२.१.४.११। (द्यौरिव) यथा सूर्यप्रकाशयुक्त आकाशे (भूम्ना) विभुना (पृथिवीव) यथा विस्तृता भूमिः (वरिम्णा) श्रेष्ठगुणसमूहेन (तस्याः) वक्ष्यमाणायाः (ते) अस्याः प्रत्यक्षायाः। अत्र व्यत्ययः। (पृथिवि) पृथिव्याः (देवयजनि) देवा यजन्ति यस्यां तस्याः। अत्रोभयत्र प्रातिपदिकनिर्देशानामर्थतन्त्रत्वात् षष्ठ्यर्थे प्रथमा विपरिणम्यते। (पृष्ठे) उपरि (अग्निम्) भौतिकम् (अन्नादम्) योऽन्नं यवादिकं सर्वमत्ति तम् (अन्नाद्याय) अत्तुं योग्यमद्यमन्नं च तदद्यं चान्नाद्यं च तस्मै (आ) समन्तात् (दधे) स्थापयामि। अयं मन्त्रः (शत०२.१.४.११-२८) व्याख्यातः ॥५॥