येषा॑म॒द्ध्येति॑ प्र॒वस॒न् येषु॑ सौमन॒सो ब॒हुः। गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः ॥४२॥
येषा॑म्। अ॒ध्येतीत्य॑धि॒ऽएति॑। प्र॒वस॒न्निति॑ प्र॒ऽवस॑न्। येषु॑। सौ॒म॒न॒सः। ब॒हुः। गृ॒हान्। उप॑। ह्व॒या॒म॒हे॒। ते। नः॒। जा॒न॒न्तु॒। जा॒न॒तः ॥४२॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह गृहस्थाश्रम कैसा है, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्ते गृहाश्रमिणः कीदृशाः सन्तीत्युपदिश्यते ॥
(येषाम्) गृहस्थानाम्। अत्र अधीगर्थदयेशां कर्मणि (अष्टा०२.३.५२) इति कर्मणि षष्ठी। (अध्येति) स्मरति (प्रवसन्) प्रवासं कुर्वन् (येषु) गृहस्थेषु (सौमनसः) शोभनं मनः सुमनस्तस्यायमानन्दः सुहृद्भावः, अत्र तस्येदम् [अष्टा०४.३.१२०] इत्यण्। (बहुः) अधिकः (गृहान्) गृहस्थान् (उप) सामीप्ये (ह्वयामहे) शब्दयामहे (ते) गृहस्थाः (नः) अस्मान् प्रवसतोऽतिथीन् (जानन्तु) विदन्तु (जानतः) धार्मिकान् विदुषः ॥४२॥
