भूर्भुवः॒ स्वः᳖ सुप्र॒जाः प्र॒जाभिः॑ स्या सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑। नर्य॑ प्र॒जां मे॑ पाहि॒ शꣳस्य॑ प॒शून् मे॑ पा॒ह्यथ॑र्य पि॒तुं मे॑ पाहि ॥३७॥
भूः। भुवः॑। स्व॒रिति॒ स्वः᳖। सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जाभि॒रिति॑ प्र॒ऽजाभिः॑। स्या॒म्। सु॒वीर॒ इति॑ सु॒ऽवीरः॑। वी॒रैः। सु॒पोष॒ इति॑ सु॒पोषः॑। पोषैः॑। नर्य॑। प्र॒जामिति॑ प्र॒ऽजाम्। मे॒। पा॒हि॒। शꣳस्य॑। प॒शून्। मे॒। पा॒हि॒। अथ॑र्य। पि॒तुम्। मे॒ पा॒हि॒ ॥३७॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उस जगदीश्वर की प्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स जगदीश्वरः किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
(भूः) प्रियस्वरूपः प्राणः (भुवः) बलनिमित्त उदानः (स्वः) सर्वचेष्टानिमित्तो व्यानश्च, तैः सह (सुप्रजाः) शोभना सुशिक्षासद्विद्यासहिता प्रजा यस्य सः (प्रजाभिः) अनुकूलाभिः स्त्र्यौरसविद्यासन्तानमित्रभृत्य-राज्यपश्वादिभिः (स्याम्) भवेयम् (सुवीरः) शोभना वीराः शरीरात्मबलसहिता यस्य सः (वीरैः) शौर्यधैर्यविद्याशत्रुनिवारणप्रजापालनकुशलैः (सुपोषः) श्रेष्ठाः पोषाः पुष्टयो यस्य स (पौषैः) पुष्टिकारकैराप्तविद्याजनितैर्बोधयुक्तैर्व्यवहारैः (नर्य) नीतियुक्तेषु नृषु साधुस्तत्संबुद्धौ परमेश्वर ! (प्रजाम्) सन्तानादिकाम् (मे) मम (पाहि) सततं रक्ष (शंस्य) शंसितुं सर्वथा स्तोतुमर्ह (पशून्) गोऽश्वहस्त्यादीन् (मे) मम (पाहि) रक्षय (अथर्य) संशयरहित। थर्वतिश्चरतिकर्म्मा। (निरु०११.१८) थर्वति संशेते यः सः थर्य्यो न थर्य्योऽथर्यस्तत्संबुद्धौ, अत्र वर्णव्यत्ययेन वकारस्थाने यकारः। (पितुम्) अन्नम्। पितुरित्यन्ननामसु पठितम्। (निघं०२.७) (मे) मम (पाहि) रक्ष। अत्रोभयत्रान्तर्गतो ण्यर्थः। अयं मन्त्रः (शत०२.४.१.१-६) व्याख्यातः ॥३७॥