हिन्दी - स्वामी दयानन्द सरस्वती
फिर उस की प्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
(इडे) इडा पृथिवी। इडेति पृथिवीनामसु पठितम्। (निघं०१.१) (आ) समन्तात् (इहि) प्राप्नुयात्। अत्र सर्वत्र व्यत्ययः (अदिते) नाशरहिता राजनीतिः। अदितिरिति पदनामसु पठितम्। (निघं०४.१) अनेनात्र प्राप्त्यर्थो गृह्यते। (आ) समन्तात् (इहि) प्राप्नुयात् (काम्याः) काम्यन्त इष्यन्ते ये पदार्थास्ते (आ) समन्तात् (इत) यन्तु प्राप्नुवन्तु (मयि) मनुष्ये (वः) तेषां काम्यानां पदार्थानाम् (कामधरणम्) कामानां धरणं स्थानम् (भूयात्)। अयं मन्त्रः (शत०२.३.४.३४) व्याख्यातः ॥२७॥