रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑व॒स्मिन् गो॒ष्ठे᳕ऽस्मिँल्लो॒के᳕ऽस्मिन् क्षये॑। इ॒हैव स्त॒ माप॑गात ॥२१॥
रेव॑तीः। रम॑ध्वम्। अ॒स्मिन्। योनौ॑। अ॒स्मिन्। गो॒ष्ठे। गो॒स्थ इति॑ गो॒ऽस्थे॑। अ॒स्मिन्। लो॒के। अ॒स्मिन्। क्षये॑। इ॒ह। ए॒व। स्त॒। मा। अप॑। गा॒त॒ ॥२१॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब विद्वानों के सत्कार के लिये उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ विदुषां सत्कारायोपदिश्यते ॥
(रेवतीः) विद्याधनसहिताः प्रशस्ता नीतयो गाव इन्द्रियाणि पशवः पृथिवीराज्यादियुक्ता यासु ताः। अत्र सुपां सुलुग्० [अष्टा०७.१.३९] इति पूर्वसवर्णादेशः, प्रशंसार्थे मतुप् च। (रमध्वम्) रमणं कुर्वन्तु। अत्र व्यत्ययः। (अस्मिन्) प्रत्यक्षे (योनौ) जन्मनि स्थले वा (अस्मिन्) समक्षे (गोष्ठे) गावः पशव इन्द्रियाणि यस्मिंस्तिष्ठन्ति तस्मिन् (अस्मिन्) सेव्यमाने (लोके) संसारे (अस्मिन्) अस्माभिः संपादिते (क्षये) निवसनीये गृहे (इह) एतेषु (एव) अवधारणार्थे (स्त) सन्ति। अत्र व्यत्ययो लडर्थे लोट् च। (मा) निषेधे (अप) दूरार्थे (गात) गच्छन्तु। अत्र लोडर्थे लङ् पुरुषव्यत्ययश्च। अयं मन्त्रः (शत०२.३.४.२६) व्याख्यातः ॥२१॥