हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
(अस्य) अग्नेः (प्रत्नाम्) अनादिवर्त्तमानां पुराणीमनादिस्वरूपेण नित्याम्। प्रत्नमिति पुराणनामसु पठितम्। (निघं०३.२७) (अनु) पश्चादर्थे (द्युतम्) कारणस्थां दीप्तिम्। अत्र द्युत दीप्तावित्यस्मात् क्विप् प्रत्ययः। (शुक्रम्) शुद्धं कार्यकरं साधनम् (दुदुह्रे) प्रपूरयन्ति। अत्र वर्तमाने लिट्। इरयो रे [अष्टा०६.४.७६] अनेनेरेजित्यस्य स्थाने रे आदेशः। (अह्रयः) अह्नुवन्ति व्याप्नुवन्ति सर्वा विद्या ये ते विद्वांसः। अत्राऽह व्याप्तावित्यस्माद् बाहुलकेनौणादिकः किः प्रत्ययः। महीधरेणायं ह्री लज्जायामित्यस्य प्रयोगोऽशुद्ध एव व्याख्यात इति। (पयः) जलम्। पय इत्युदकनामसु पठितम्। (निघं०१.१२) (सहस्रसाम्) या सहस्राण्यसंख्यातानि कार्याणि सनोति ताम् (ऋषिम्) कार्यसिद्धिप्राप्तिहेतुम्। अत्र इगुपधात् कित् [उणा०४.१२०] अनेन ऋषी गतावित्यस्माद्धातोरिन् प्रत्ययः। अयं मन्त्रः (शत०२.३.४.१५) व्याख्यातः ॥१६॥