अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥१५॥
अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑। यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरुरु॒चुः। वने॑षु। चि॒त्रम्। विभ्व᳕मिति॑ वि॒ऽभ्व॒म्। वि॒शेवि॑श॒ इति॑ वि॒शेऽवि॑शे ॥१५॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह अग्नि कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः सोऽग्निः कीदृशः इत्युपदिश्यते ॥
(अयम्) ईश्वरो भौतिको वा (इह) अस्यां सृष्टौ (प्रथमः) यज्ञक्रियायामुपास्य आदिमं साधनं वा (धायि) ध्रियते। अत्र वर्त्तमाने लुङ्। बहुलं छन्दस्यमाङ्योगेऽपि [अष्टा०६.४.७५] इत्यडभावः। (धातृभिः) यज्ञक्रियाधारकैर्विद्वद्भिः (होता) ग्राहकः (यजिष्ठः) अतिशयेनानन्दशिल्पविद्ययोः सङ्गतिहेतुः (अध्वरेषु) उपासनाग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यान्तर्गतेषु वा यज्ञेषु (ईड्यः) उपासितुमध्येषितुं वार्हः (यम्) उक्तार्थम् (अप्नवानः) येऽप्नान् विद्यासन्तानान् कुर्वन्ति ते, अप्न इत्यस्मात् तत्करोति तदाचष्टे [अष्टा०वा०३.१.२६] अनेन करोत्यर्थे णिच्। ततोऽन्येभ्योऽपि दृश्यन्ते [अष्टा०३.२.७५] इति वनिप्। अप्न इत्यपत्यनामसु पठितम्। (निघं०२.२) (भृगवः) यज्ञविद्यावेत्तारः। भृगव इति पदनामसु पठितम्। (निघं०५.५) अनेन ज्ञानवत्त्वं गृह्यते (विरुरुचुः) विदीपयन्ति, अत्र लडर्थे लिट्। (वनेषु) संभजनीयेषु (चित्रम्) अद्भुतगुणम् (विभ्वम्) व्यापनशीलम्। अत्र वा छन्दसि [अष्टा०६.१.१०६] इत्यनेन पूर्वरूपादेशो न। (विशेविशे) प्रतिप्रजाम्। अयं मन्त्रः (शत०२.३.४.१४) व्याख्यातः ॥१५॥