आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै॑श्वदे॒वऽऐ॒न्द्रो᳖ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ऽऐन्द्रा॒ग्नः स॑ꣳहि॒तो᳕ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्णऽएक॑शितिपा॒त्पेत्वः॑ ॥५८ ॥
आ॒ग्ने॒यः। कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्णऽग्री॑वः। सा॒र॒स्व॒ती। मे॒षी। ब॒भ्रुः। सौ॒म्यः। पौ॒ष्णः। श्या॒मः। शि॒ति॒पृ॒ष्ठ इति॑ शितिऽपृ॒ष्ठः ॥ बा॒र्ह॒स्प॒त्यः। शि॒ल्पः। वै॒श्व॒दे॒व इति॑ वैश्वऽदे॒वः। ऐ॒न्द्रः। अ॒रु॒णः। मा॒रु॒तः। क॒ल्माषः॑। ऐ॒न्द्रा॒ग्नः। स॒ꣳहि॒त इति॑ सम्ऽहि॒तः। अ॒धोरा॑म॒ इत्य॒धःऽरा॑मः। सा॒वि॒त्रः। वा॒रु॒णः। कृ॒ष्णः। एक॑शितिपा॒दित्येक॑ऽशितिपात्। पेत्वः॑ ॥५८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब कैसे पशु कैसे गुणोंवाले होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ कीदृशाः पशवः किंगुणा इत्याह ॥
(आग्नेयः) अग्निदेवताकः (कृष्णग्रीवः) कृष्णा ग्रीवा यस्य सः (सारस्वती) सरस्वतीदेवताका (मेषी) (बभ्रुः) धूम्रवर्णः (सौम्यः) सोमदेवताकः (पौष्णः) पूषदेवताकाः (श्यामः) श्यामवर्णः (शितिपृष्ठः) कृष्णपृष्ठः (बार्हस्पत्यः) बृहस्पतिदेवताकः (शिल्पः) नानावर्णः (वैश्वदेवः) विश्वदेवदेवताकः (ऐन्द्रः) इन्द्रदेवताकः (अरुणः) रक्तवर्णः (मारुतः) मरुद्देवताकः (कल्माषः) श्वेतकृष्णवर्णः (ऐन्द्राग्नः) इन्द्राग्निदैवत्यः (संहितः) दृढाङ्गः (अधोरामः) अधःक्रीडी (सावित्रः) सवितृदेवताकः (वारुणः) वरुणदैवत्यः (कृष्णः) (एकशितिपात्) एकः शितिः पादोऽस्य (पेत्वः) पतनशीलः ॥५८।