आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेद स्यो॒नꣳ सर॑स्वती॒ स्वप॑सः सदन्तु ॥३३ ॥
आ। नः॒। य॒ज्ञम्। भार॑ती॒। तूय॑म्। ए॒तु॒। इडा॑। म॒नु॒ष्वत्। इ॒ह। चे॒तय॑न्ती। ति॒स्रः। दे॒वीः। ब॒र्हिः। आ। इ॒दम्। स्यो॒नम्। सर॑स्वती। स्वप॑स॒ इति॑ सु॒ऽअप॑सः। स॒द॒न्तु॒ ॥३३।
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(आ) समन्तात् (नः) अस्मभ्यम् (यज्ञम्) शिल्पविद्याप्रकाशमयम्। (भारती) एतद्विद्याधारिका क्रिया (तूयम्) वर्द्धकम् (एतु) प्राप्नोतु (इडा) सुशिक्षिता मधुरा वाक् (मनुष्वत्) मानववत् (इह) अस्मिन् शिल्पविद्याग्रहणव्यवहारे (चेतयन्ती) प्रज्ञापयन्ती (तिस्रः) (देवी) देदीप्यमानाः (बर्हिः) प्रवृद्धम् (आ) (इदम्) (स्योनम्) सुखकारकम् (सरस्वती) विज्ञानवती प्रज्ञा (स्वपसः) सुष्ठ्वपांसि कर्माणि येषान्तान् (सदन्तु) प्रापयन्तु ॥३३ ॥