होता॑ यक्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तमा॒जुह्वा॑न॒मम॑र्त्यम्। दे॒वो दे॒वैः सवी॑र्यो॒ वज्र॑हस्तः पुरन्द॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥३ ॥
होता॑। य॒क्ष॒त्। इडा॑भिः। इन्द्र॑म्। ई॒डि॒तम्। आ॒जुह्वा॑न॒मित्या॒ऽजुह्वा॑नम्। अम॑र्त्यम्। दे॒वः। दे॒वैः। सवी॑र्य॒ इति॒ सऽवी॑र्यः। वज्र॑हस्त॒ इति॒ वज्र॑ऽहस्तः। पु॒र॒न्द॒र इति॑ पुरम्ऽद॒रः। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(होता) (यक्षत्) (इडाभिः) सुशिक्षिताभिर्वाग्भिः (इन्द्रम्) परमविद्यैश्वर्यसम्पन्नम् (ईडितम्) प्रशस्तम् (आजुह्वानम्) स्पर्द्धमानम् (अमर्त्यम्) साधारणैर्मनुष्यैरसदृशम् (देवः) विद्वान् (देवैः) विद्वद्भिः सह (सवीर्यः) बलोपेतः (वज्रहस्तः) वज्राणि शस्त्रास्त्राणि हस्ते यस्य सः (पुरन्दरः) योऽरिपुराणि दृणाति सः (वेतु) प्राप्नोतु (आज्यस्य) विज्ञानेन रक्षितुं योग्यस्य राज्यस्य (होतः) (यज) ॥३ ॥