तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर्य॑म्। रा॒यस्पोषं॒ विष्य॑तु॒ नाभि॑म॒स्मे ॥२० ॥
तम्। नः॒। तु॒रीप॑म्। अद्भु॑तम्। पु॒रु॒क्षु। त्वष्टा॑। सु॒वीर्य॒मिति॑ सु॒ऽवीर्य॑म्। रा॒यः। पोष॑म्। वि। स्य॒तु॒। नाभि॑म्। अ॒स्मे इत्य॒स्मे ॥२० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
ईश्वर से क्या प्रार्थना करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
ईश्वरात् किं प्रार्थनीयमित्याह ॥
(तम्) प्रसिद्धम् (नः) अस्मान् (तुरीपम्) यत्तुरः सद्य आप्नोति तम् (अद्भुतम्) आश्चर्यगुणकर्मस्वभावम् (पुरुक्षु) यत् पुरुषु बहुषु क्षियति वसति तत् (त्वष्टा) विद्यया प्रकाशित ईश्वरः (सुवीर्यम्) सुष्ठु बलम् (रायः) धनस्य (पोषम्) पुष्टिम् (वि, स्यतु) विमुञ्चतु (नाभिम्) मध्यप्रदेशम् (अस्मे) अस्माकम् ॥२० ॥
