अग्ने॒ त्वं नो॒ऽ अन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः᳖। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मꣳ र॒यिं दाः॑ ॥४७ ॥ तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात्॥४८ ॥
अग्ने॑। त्वम्। नः॒। अन्त॑मः। उ॒त। त्रा॒ता। शि॒वः। भ॒व॒। व॒रु॒थ्यः᳖। वसुः॑। अ॒ग्निः। वसु॑श्रवा॒ इति॒ वसु॑ऽश्रवाः। अच्छ॑। न॒क्षि॒। द्यु॒मत्त॑म॒मिति॑ द्यु॒मत्ऽत॑मम्। र॒यिम्। दाः॒ ॥४७ ॥ तम्। त्वा॒। शो॒चि॒ष्ठ॒। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य इति॒ सखिऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धी। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒तः। अ॒घ॒य॒त इत्य॑घऽय॒तः। सम॑स्मात्॥४८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर कौन सत्कार करने योग्य हैं, इस विषय को अगले मन्त्र में कहा है ॥ फिर मनुष्यों को इस जगत् में कैसे वर्त्तना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः के सत्कर्त्तव्याः सन्तीत्याह ॥ पुनर्मनुष्यैरिह कथं वर्त्तितव्यमित्याह ॥
(अग्ने) वेदविदध्यापकोपदेशक (त्वम्) (नः) अस्माकम् (अन्तमः) निकटस्थः (उत) अपि (त्राता) पालकः (शिवः) कल्याणकारी (भव) अत्र द्व्यचोऽतस्तिङः [अ०६.३.१३५] इति दीर्घः। (वरूथ्यः) वरूथेषु गृहेषु साधुः (वसुः) विद्यासु वासयिता (अग्निः) पावक इव (वसुश्रवाः) वसूनि धनानि श्रवणे यस्य सः (अच्छ) अत्र निपातस्य च [अ०६.३.१३६] इति दीर्घः। (नक्षि) प्राप्नोषि। णक्षधातोरयं प्रयोगः। (द्युमत्तमम्) अतिशयेन प्रकाशवन्तम् (रयिम्) धनम् (दाः) दद्याः ॥४७ ॥ (तम्) (त्वा) त्वाम् (शोचिष्ठ) सद्गुणैः प्रकाशमान (दीदिवः) विद्यादिगुणैः शोभावन् (सुम्नाय) सुखाय (नूनम्) निश्चितम् (ईमहे) याचामहे (सखिभ्यः) मित्रेभ्यः (सः) (नः) अस्मान् (बोधि) बोधय (श्रुधी) शृणु (हवम्) आह्वानम् (उरुष्य) रक्ष (नः) अस्माकम् (अघायतः) आत्मनोऽघमाचरतः (समस्मात्) अधर्मेण तुल्यगुणकर्मस्वभावात्॥४८ ॥