सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पु॒ꣳसः पु॒त्राँ२ऽउ॒त वि॑श्वा॒पुष॑ꣳ र॒यिम्। अ॒ना॒गा॒स्त्वं नो॒ऽअदि॑तिः कृणोतु क्ष॒त्रं नो॒ऽअश्वो॑ वनता ह॒विष्मा॑न् ॥४५ ॥
सु॒गव्य॒मिति॑ सु॒ऽगव्य॑म्। नः॒। वा॒जी। स्वश्व्य॒मिति॑ सु॒ऽअश्व्य॑म्। पुं॒सः। पु॒त्रान्। उ॒त। वि॒श्वा॒पुष॑म्। वि॒श्वु॒पुष॒मिति॑ विश्व॒ऽपुष॑म्। र॒यिम्। अ॒ना॒गा॒स्त्वमित्य॑नागः॒ऽत्वम्। नः॒। अदि॑तिः। कृ॒णो॒तु॒। क्ष॒त्रम्। नः॒। अश्वः॑। व॒न॒ता॒म्। ह॒विष्मा॑न् ॥४५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
किन से राज्य की उन्नति होवे, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कै राज्योन्नतिः स्यादित्याह ॥
(सुगव्यम्) सुष्ठु गोभ्यो हितम् (नः) अस्माकम् (वाजी) अश्वः (स्वश्व्यम्) शोभनेष्वश्वेषु भवम् (पुंसः) पुंस्त्वयुक्तान् पुरुषार्थिनः (पुत्रान्) (उत) अपि (विश्वापुषम्) समग्रपुष्टिकरम् (रयिम्) धनम् (अनागास्त्वम्) अनपराधत्वम् (नः) अस्मान् (अदितिः) कारणरूपेणाविनाशिनी भूमिः (कृणोतु) (क्षत्रम्) राज्यम् (नः) अस्माकम् (अश्वः) व्याप्तिशीलः (वनताम्) संभजताम् (हविष्मान्) प्रशस्तानि हवींषि सुखदानानि यस्मिन् सः ॥४५ ॥