यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या᳖ रश॒ना रज्जु॑रस्य। यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये᳖ तृण॒ꣳ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु ॥३१ ॥
यत्। वा॒जिनः॑। दाम॑। स॒न्दान॒मिति॑ स॒म्ऽदान॑म्। अर्व॑तः। या। शी॒र्ष॒ण्या᳖। र॒श॒ना। रज्जुः॑। अ॒स्य॒। यत्। वा॒। घ॒। अ॒स्य॒। प्रभृ॑त॒मिति॒ प्रऽभृ॑तम्। आ॒स्ये᳖। तृण॑म्। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु॑। अ॒स्तु॒ ॥३१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर कौन किनसे क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः के कैः किं कुर्युरित्याह ॥
(यत्) (वाजिनः) प्रशस्तवेगवतः (दाम) उदरबन्धनम् (सन्दानम्) पादादिबन्धनादीनि (अर्वतः) बलिष्ठस्याश्वस्य (या) (शीर्षण्या) शिरसि भवा (रशना) व्याप्नुवती (रज्जुः) (अस्य) (यत्) (वा) (घ) एव (अस्य) (प्रभृतम्) प्रकर्षेण धृतम् (आस्ये) मुखे (तृणम्) घासविशेषम् (सर्वा) सर्वाणि (ता) तानि (ते) तव (अपि) (देवेषु) विद्वत्सु (अस्तु) ॥३१ ॥